हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Kishkindha Kanda Sarga 40 – किष्किन्धाकाण्ड चत्वारिंशः सर्गः (४०)
॥ प्राचीप्रेषणम् ॥
अथ राजा समृद्धार्थः सुग्रीवः प्लवगाधिपः ।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥ १ ॥
आगता विनिविष्टाश्च बलिनः कामरूपिणः ।
वानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥ २ ॥
त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः ।
आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ ३ ॥
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः ।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥
पृथिव्यम्बुचरा राम नानानगनिवासिनः ।
कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ ५ ॥
निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ ६ ॥
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः ।
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ॥ ७ ॥
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ।
काममेषामिदं कार्यं विदितं मम तत्त्वतः ॥ ८ ॥
तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ।
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः ॥ ९ ॥
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ।
ज्ञायतां मम वैदेही यदि जीवति वा न वा ॥ १० ॥
स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ।
अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ ११ ॥
प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ।
नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः ॥ १२ ॥
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ।
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् ॥ १३ ॥
त्वं हि जानासि यत्कार्यं मम वीर न संशयः ।
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् ॥ १४ ॥
भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः ।
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् ॥ १५ ॥
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ।
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ १६ ॥
सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ।
देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ १७ ॥
वृतः शतसहस्रेण वानराणां तरस्विनाम् ।
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ १८ ॥
तत्र सीतां च वैदेहीं निलयं रावणस्य च ।
मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ १९ ॥
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ।
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥ २० ॥
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ।
महीं कालमहीं चैव शैलकाननशोभिताम् ॥ २१ ॥
ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् ।
मागधांश्च महाग्रामान् पुण्ड्रान् वङ्गांस्तथैव च ॥ २२ ॥
पत्तनं कोशकाराणां भूमिं च रजताकराम् ।
सर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः ॥ २३ ॥
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ।
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च ॥ २४ ॥
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ।
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ॥ २५ ॥
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ।
अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ॥ २६ ॥
किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ।
आममीनाशनास्तत्र किराता द्वीपवासिनः ॥ २७ ॥
अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ।
एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ २८ ॥
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ २९ ॥
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ।
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ ३० ॥
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ।
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ॥ ३१ ॥
मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ।
ततो रक्तजलं शोणमगाधं शीघ्रगाहिनम् ॥ ३२ ॥
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ।
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ॥ ३३ ॥
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ।
पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः ॥ ३४ ॥
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ।
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ ३५ ॥
ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ।
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः ॥ ३६ ॥
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ।
तं कालमेघप्रतिमं महोरगनिषेवितम् ॥ ३७ ॥
अभिगम्य महानादं तीर्थेनैव महोदधिम् ।
ततो रक्तजलं भीमं लोहितं नाम सागरम् ॥ ३८ ॥
गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ।
गृहं च वैनतेयस्य नानारत्नविभूषितम् ॥ ३९ ॥
तत्र कैलाससङ्काशं विहितं विश्वकर्मणा ।
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः ॥ ४० ॥
शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ।
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ॥ ४१ ॥
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ।
अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ॥ ४२ ॥
ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् ।
गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ ४३ ॥
तस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः ।
दिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः ॥ ४४ ॥
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ।
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४५ ॥
विबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः ।
हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ ४६ ॥
क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः ।
जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ ४७ ॥
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ।
अस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ ४८ ॥
तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ।
श्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम् ॥ ४९ ॥
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश ।
जातरूपशिलो नाम महान् कनकपर्वतः ॥ ५० ॥
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ।
पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ५१ ॥
आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ५२ ॥
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ५३ ॥
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ।
ततः परं हेममयः श्रीमानुदयपर्वतः ॥ ५४ ॥
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ।
जातरूपमयी दिव्या विराजति सवेदिका ॥ ५५ ॥
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ।
जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ ५६ ॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५७ ॥
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे ।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ५८ ॥
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५९ ॥
तत्र वैखानसा नाम वालखिल्या महर्षयः ।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ६० ॥
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते ।
यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ६१ ॥
शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६२ ॥
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ।
आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ ६३ ॥
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ।
सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ६४ ॥
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६५ ॥
ततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता ।
रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ ६६ ॥
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च ।
ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ६७ ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ ६८ ॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६९ ॥
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥ ७० ॥
महेन्द्रकान्तां वनषण्डमण्डितां
दिशं चरित्वा निपुणेन वानराः ।
अवाप्य सीतां रघुवंशजप्रियां
ततो निवृत्ताः सुखिनो भविष्यथ ॥ ७१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.